Bhagavad Gita
Share

Share it on your social apps

ज्ञानकर्मसंन्यासयोगः

Jnana karma sanyasa yoga

Adhyaya 4

  • 1
    श्रीभगवानुवाच |
    इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |
    विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || 1||
  • 2
    एवं परम्पराप्राप्तमिमं राजर्षयो विदु |
    स कालेनेह महता योगो नष्ट परन्तप || 2||
  • 3
    स एवायं मया तेऽद्य योग प्रोक्त पुरातन |
    भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् || 3||
  • 4
    अर्जुन उवाच |
    अपरं भवतो जन्म परं जन्म विवस्वत |
    कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति || 4||
  • 5
    श्रीभगवानुवाच |
    बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |
    तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप || 5||
  • 6
    अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् |
    प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया || 6||
  • 7
    यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |
    अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् || 7||
  • 8
    परित्राणाय साधूनां विनाशाय च दुष्कृताम् |
    धर्मसंस्थापनार्थाय सम्भवामि युगे युगे || 8||
  • 9
    जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वत |
    त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन || 9||
  • 10
    वीतरागभयक्रोधा मन्मया मामुपाश्रिता |
    बहवो ज्ञानतपसा पूता मद्भावमागता || 10||
  • 11
    ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |
    मम वर्त्मानुवर्तन्ते मनुष्या पार्थ सर्वश || 11||
  • 12
    काङ् क्षन्त कर्मणां सिद्धिं यजन्त इह देवता |
    क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || 12||
  • 13
    चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश |
    तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || 13||
  • 14
    न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा |
    इति मां योऽभिजानाति कर्मभिर्न स बध्यते || 14||
  • 15
    एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि |
    कुरु कर्मैव तस्मात्त्वं पूर्वै पूर्वतरं कृतम् || 15||
  • 16
    किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता |
    तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 16||
  • 17
    कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मण |
    अकर्मणश्च बोद्धव्यं गहना कर्मणो गति || 17||
  • 18
    कर्मण्यकर्म य पश्येदकर्मणि च कर्म य |
    स बुद्धिमान्मनुष्येषु स युक्त कृत्स्नकर्मकृत् || 18||
  • 19
    यस्य सर्वे समारम्भा कामसङ्कल्पवर्जिता |
    ज्ञानाग्निदग्धकर्माणं तमाहु पण्डितं बुधा || 19||
  • 20
    त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रय |
    कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति स || 20||
  • 21
    निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रह |
    शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् || 21||
  • 22
    यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सर |
    सम सिद्धावसिद्धौ च कृत्वापि न निबध्यते || 22||
  • 23
    गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस |
    यज्ञायाचरत कर्म समग्रं प्रविलीयते || 23||
  • 24
    ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् |
    ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || 24||
  • 25
    दैवमेवापरे यज्ञं योगिन पर्युपासते |
    ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति || 25||
  • 26
    श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति |
    शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति || 26||
  • 27
    सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे |
    आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते || 27||
  • 28
    द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे |
    स्वाध्यायज्ञानयज्ञाश्च यतय संशितव्रता || 28||
  • 29
    अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे |
    प्राणापानगती रुद्ध्वा प्राणायामपरायणा || 29||
    अपरे नियताहारा प्राणान्प्राणेषु जुह्वति |
    सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा || 30||
  • 30
    अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे |
    प्राणापानगती रुद्ध्वा प्राणायामपरायणा || 29||
    अपरे नियताहारा प्राणान्प्राणेषु जुह्वति |
    सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा || 30||
  • 31
    यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् |
    नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्य कुरुसत्तम || 31||
  • 32
    एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे |
    कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे || 32||
  • 33
    श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञ परन्तप |
    सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || 33||
  • 34
    तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |
    उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन || 34||
  • 35
    यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव |
    येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि || 35||
  • 36
    अपि चेदसि पापेभ्य सर्वेभ्य पापकृत्तम |
    सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || 36||
  • 37
    यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |
    ज्ञानाग्नि सर्वकर्माणि भस्मसात्कुरुते तथा || 37||
  • 38
    न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |
    तत्स्वयं योगसंसिद्ध कालेनात्मनि विन्दति || 38||
  • 39
    श्रद्धावान् लभते ज्ञानं तत्पर संयतेन्द्रिय |
    ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || 39||
  • 40
    अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति |
    नायं लोकोऽस्ति न परो न सुखं संशयात्मन || 40||
  • 41
    योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् |
    आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय || 41||
  • 42
    तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मन |
    छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत || 42||
Temple Icon Home Read Icon Read Saved Icon Saved Profile Icon Profile