Bhagavad Gita
Share

Share it on your social apps

गुणत्रयविभागयोगः

Gunatraya vibhaga yoga

Adhyaya 14

  • 1
    श्रीभगवानुवाच |
    परं भूय प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |
    यज्ज्ञात्वा मुनय सर्वे परां सिद्धिमितो गता || 1||
  • 2
    इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता |
    सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च || 2||
  • 3
    मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
    सम्भव सर्वभूतानां ततो भवति भारत || 3||
    सर्वयोनिषु कौन्तेय मूर्तय सम्भवन्ति या |
    तासां ब्रह्म महद्योनिरहं बीजप्रद पिता || 4||
  • 4
    मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
    सम्भव सर्वभूतानां ततो भवति भारत || 3||
    सर्वयोनिषु कौन्तेय मूर्तय सम्भवन्ति या |
    तासां ब्रह्म महद्योनिरहं बीजप्रद पिता || 4||
  • 5
    सत्त्वं रजस्तम इति गुणा प्रकृतिसम्भवा |
    निबध्नन्ति महाबाहो देहे देहिनमव्ययम् || 5||
  • 6
    तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |
    सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ || 6||
  • 7
    रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् |
    तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् || 7||
  • 8
    तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |
    प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत || 8||
  • 9
    सत्त्वं सुखे सञ्जयति रज कर्मणि भारत |
    ज्ञानमावृत्य तु तम प्रमादे सञ्जयत्युत || 9||
  • 10
    रजस्तमश्चाभिभूय सत्त्वं भवति भारत |
    रज सत्त्वं तमश्चैव तम सत्त्वं रजस्तथा || 10||
  • 11
    सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |
    ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत || 11||
    लोभ प्रवृत्तिरारम्भ कर्मणामशम स्पृहा |
    रजस्येतानि जायन्ते विवृद्धे भरतर्षभ || 12||
    अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |
    तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन || 13||
  • 12

  • 13

  • 14
    यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् |
    तदोत्तमविदां लोकानमलान्प्रतिपद्यते || 14||
    रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते |
    तथा प्रलीनस्तमसि मूढयोनिषु जायते || 15||
  • 15
    यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् |
    तदोत्तमविदां लोकानमलान्प्रतिपद्यते || 14||
    रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते |
    तथा प्रलीनस्तमसि मूढयोनिषु जायते || 15||
  • 16
    कर्मण सुकृतस्याहु सात्त्विकं निर्मलं फलम् |
    रजसस्तु फलं दुखमज्ञानं तमस फलम् || 16||
  • 17
    सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |
    प्रमादमोहौ तमसो भवतोऽज्ञानमेव च || 17||
  • 18
    ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसा |
    जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा || 18||
  • 19
    नान्यं गुणेभ्य कर्तारं यदा द्रष्टानुपश्यति |
    गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति || 19||
  • 20
    गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् |
    जन्ममृत्युजरादुखैर्विमुक्तोऽमृतमश्रुते || 20||
  • 21
    अर्जुन उवाच |
    कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो |
    किमाचार कथं चैतांस्त्रीन्गुणानतिवर्तते || 21||
  • 22
    श्रीभगवानुवाच |
    प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |
    न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ् क्षति || 22||
    उदासीनवदासीनो गुणैर्यो न विचाल्यते |
    गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते || 23||
  • 23
    श्रीभगवानुवाच |
    प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |
    न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ् क्षति || 22||
    उदासीनवदासीनो गुणैर्यो न विचाल्यते |
    गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते || 23||
  • 24
    समदुखसुख स्वस्थ समलोष्टाश्मकाञ्चन |
    तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुति || 24||
    मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो |
    सर्वारम्भपरित्यागी गुणातीत स उच्यते || 25||
  • 25
    समदुखसुख स्वस्थ समलोष्टाश्मकाञ्चन |
    तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुति || 24||
    मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो |
    सर्वारम्भपरित्यागी गुणातीत स उच्यते || 25||
  • 26
    मां च योऽव्यभिचारेण भक्तियोगेन सेवते |
    स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते || 26||
  • 27
    ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |
    शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च || 27||
Temple Icon Home Read Icon Read Saved Icon Saved Profile Icon Profile