Bhagavad Gita
Share

Share it on your social apps

विश्वरूपदर्शनयोगः

Vishvarupa darshana yoga

Adhyaya 11

  • 1
    अर्जुन उवाच |
    मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् |
    यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम || 1||
  • 2
    भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |
    त्वत्त कमलपत्राक्ष माहात्म्यमपि चाव्ययम् || 2||
  • 3
    एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |
    द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम || 3||
  • 4
    मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
    योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् || 4||
  • 5
    श्रीभगवानुवाच |
    पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश |
    नानाविधानि दिव्यानि नानावर्णाकृतीनि च || 5||
  • 6
    पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा |
    बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत || 6||
  • 7
    इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् |
    मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि || 7||
  • 8
    न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |
    दिव्यं ददामि ते चक्षु पश्य मे योगमैश्वरम् || 8||
  • 9
    सञ्जय उवाच |
    एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि |
    दर्शयामास पार्थाय परमं रूपमैश्वरम् || 9||
  • 10
    अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् |
    अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् || 10||
    दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् |
    सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् || 11||
  • 11
    अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् |
    अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् || 10||
    दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् |
    सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् || 11||
  • 12
    दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
    यदि भा सदृशी सा स्याद्भासस्तस्य महात्मन || 12||
  • 13
    तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |
    अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा || 13||
  • 14
    तत स विस्मयाविष्टो हृष्टरोमा धनञ्जय |
    प्रणम्य शिरसा देवं कृताञ्जलिरभाषत || 14||
  • 15
    अर्जुन उवाच |
    पश्यामि देवांस्तव देव देहे
    सर्वांस्तथा भूतविशेषसङ्घान् |
    ब्रह्माणमीशं कमलासनस्थ-
    मृषींश्च सर्वानुरगांश्च दिव्यान् || 15||
  • 16
    अनेकबाहूदरवक्त्रनेत्रं
    पश्यामि त्वां सर्वतोऽनन्तरूपम् |
    नान्तं न मध्यं न पुनस्तवादिं
    पश्यामि विश्वेश्वर विश्वरूप || 16||
  • 17
    किरीटिनं गदिनं चक्रिणं च
    तेजोराशिं सर्वतो दीप्तिमन्तम् |
    पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
    दीप्तानलार्कद्युतिमप्रमेयम् || 17||
  • 18
    त्वमक्षरं परमं वेदितव्यं
    त्वमस्य विश्वस्य परं निधानम् |
    त्वमव्यय शाश्वतधर्मगोप्ता
    सनातनस्त्वं पुरुषो मतो मे || 18||
  • 19
    अनादिमध्यान्तमनन्तवीर्य-
    मनन्तबाहुं शशिसूर्यनेत्रम् |
    पश्यामि त्वां दीप्तहुताशवक्त्रं-
    स्वतेजसा विश्वमिदं तपन्तम् || 19||
  • 20
    द्यावापृथिव्योरिदमन्तरं हि
    व्याप्तं त्वयैकेन दिशश्च सर्वा |
    दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
    लोकत्रयं प्रव्यथितं महात्मन् || 20||
  • 21
    अमी हि त्वां सुरसङ्घा विशन्ति
    केचिद्भीता प्राञ्जलयो गृणन्ति |
    स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा
    स्तुवन्ति त्वां स्तुतिभि पुष्कलाभि || 21||
  • 22
    रुद्रादित्या वसवो ये च साध्या
    विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |
    गन्धर्वयक्षासुरसिद्धसङ्घा
    वीक्षन्ते त्वां विस्मिताश्चैव सर्वे || 22||
  • 23
    रूपं महत्ते बहुवक्त्रनेत्रं
    महाबाहो बहुबाहूरुपादम् |
    बहूदरं बहुदंष्ट्राकरालं
    दृष्ट्वा लोका प्रव्यथितास्तथाहम् || 23||
  • 24
    नभस्पृशं दीप्तमनेकवर्णं
    व्यात्ताननं दीप्तविशालनेत्रम् |
    दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
    धृतिं न विन्दामि शमं च विष्णो || 24||
  • 25
    दंष्ट्राकरालानि च ते मुखानि
    दृष्ट्वैव कालानलसन्निभानि |
    दिशो न जाने न लभे च शर्म
    प्रसीद देवेश जगन्निवास || 25||
  • 26
    अमी च त्वां धृतराष्ट्रस्य पुत्रा
    सर्वे सहैवावनिपालसङ्घै |
    भीष्मो द्रोण सूतपुत्रस्तथासौ
    सहास्मदीयैरपि योधमुख्यै || 26||
    वक्त्राणि ते त्वरमाणा विशन्ति
    दंष्ट्राकरालानि भयानकानि |
    केचिद्विलग्ना दशनान्तरेषु
    सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै || 27||
  • 27
    अमी च त्वां धृतराष्ट्रस्य पुत्रा
    सर्वे सहैवावनिपालसङ्घै |
    भीष्मो द्रोण सूतपुत्रस्तथासौ
    सहास्मदीयैरपि योधमुख्यै || 26||
    वक्त्राणि ते त्वरमाणा विशन्ति
    दंष्ट्राकरालानि भयानकानि |
    केचिद्विलग्ना दशनान्तरेषु
    सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै || 27||
  • 28
    यथा नदीनां बहवोऽम्बुवेगा
    समुद्रमेवाभिमुखा द्रवन्ति |
    तथा तवामी नरलोकवीरा
    विशन्ति वक्त्राण्यभिविज्वलन्ति || 28||
    यथा प्रदीप्तं ज्वलनं पतङ्गा
    विशन्ति नाशाय समृद्धवेगा |
    तथैव नाशाय विशन्ति लोका-
    स्तवापि वक्त्राणि समृद्धवेगा || 29||
  • 29
    यथा नदीनां बहवोऽम्बुवेगा
    समुद्रमेवाभिमुखा द्रवन्ति |
    तथा तवामी नरलोकवीरा
    विशन्ति वक्त्राण्यभिविज्वलन्ति || 28||
    यथा प्रदीप्तं ज्वलनं पतङ्गा
    विशन्ति नाशाय समृद्धवेगा |
    तथैव नाशाय विशन्ति लोका-
    स्तवापि वक्त्राणि समृद्धवेगा || 29||
  • 30
    लेलिह्यसे ग्रसमान समन्ता-
    ल्लोकान्समग्रान्वदनैर्ज्वलद्भि |
    तेजोभिरापूर्य जगत्समग्रं
    भासस्तवोग्रा प्रतपन्ति विष्णो || 30||
  • 31
    आख्याहि मे को भवानुग्ररूपो
    नमोऽस्तु ते देववर प्रसीद |
    विज्ञातुमिच्छामि भवन्तमाद्यं
    न हि प्रजानामि तव प्रवृत्तिम् || 31||
  • 32
    श्रीभगवानुवाच |
    कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
    लोकान्समाहर्तुमिह प्रवृत्त |
    ऋतेऽपि त्वां न भविष्यन्ति सर्वे
    येऽवस्थिता प्रत्यनीकेषु योधा || 32||
  • 33
    तस्मात्त्वमुत्तिष्ठ यशो लभस्व
    जित्वा शत्रून्भुङ् क्ष्व राज्यं समृद्धम् |
    मयैवैते निहता पूर्वमेव
    निमित्तमात्रं भव सव्यसाचिन् || 33||
  • 34
    द्रोणं च भीष्मं च जयद्रथं च
    कर्णं तथान्यानपि योधवीरान् |
    मया हतांस्त्वं जहि मा व्यथिष्ठा
    युध्यस्व जेतासि रणे सपत्नान् || 34||
  • 35
    सञ्जय उवाच |
    एतच्छ्रुत्वा वचनं केशवस्य
    कृताञ्जलिर्वेपमान किरीटी |
    नमस्कृत्वा भूय एवाह कृष्णं
    सगद्गदं भीतभीत प्रणम्य || 35||
  • 36
    अर्जुन उवाच |
    स्थाने हृषीकेश तव प्रकीर्त्या
    जगत्प्रहृष्यत्यनुरज्यते च |
    रक्षांसि भीतानि दिशो द्रवन्ति
    सर्वे नमस्यन्ति च सिद्धसङ्घा || 36||
  • 37
    कस्माच्च ते न नमेरन्महात्मन्
    गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
    अनन्त देवेश जगन्निवास
    त्वमक्षरं सदसतत्परं यत् || 37||
  • 38
    त्वमादिदेव पुरुष पुराणस्-
    त्वमस्य विश्वस्य परं निधानम् |
    वेत्तासि वेद्यं च परं च धाम
    त्वया ततं विश्वमनन्तरूप || 38||
  • 39
    वायुर्यमोऽग्निर्वरुण शशाङ्क
    प्रजापतिस्त्वं प्रपितामहश्च |
    नमो नमस्तेऽस्तु सहस्रकृत्व
    पुनश्च भूयोऽपि नमो नमस्ते || 39||
  • 40
    नम पुरस्तादथ पृष्ठतस्ते
    नमोऽस्तु ते सर्वत एव सर्व |
    अनन्तवीर्यामितविक्रमस्त्वं
    सर्वं समाप्नोषि ततोऽसि सर्व || 40||
  • 41
    सखेति मत्वा प्रसभं यदुक्तं
    हे कृष्ण हे यादव हे सखेति |
    अजानता महिमानं तवेदं
    मया प्रमादात्प्रणयेन वापि || 41||
    यच्चावहासार्थमसत्कृतोऽसि
    विहारशय्यासनभोजनेषु |
    एकोऽथवाप्यच्युत तत्समक्षं
    तत्क्षामये त्वामहमप्रमेयम् || 42||
  • 42
    सखेति मत्वा प्रसभं यदुक्तं
    हे कृष्ण हे यादव हे सखेति |
    अजानता महिमानं तवेदं
    मया प्रमादात्प्रणयेन वापि || 41||
    यच्चावहासार्थमसत्कृतोऽसि
    विहारशय्यासनभोजनेषु |
    एकोऽथवाप्यच्युत तत्समक्षं
    तत्क्षामये त्वामहमप्रमेयम् || 42||
  • 43
    पितासि लोकस्य चराचरस्य
    त्वमस्य पूज्यश्च गुरुर्गरीयान् |
    न त्वत्समोऽस्त्यभ्यधिक कुतोऽन्यो
    लोकत्रयेऽप्यप्रतिमप्रभाव || 43||
  • 44
    तस्मात्प्रणम्य प्रणिधाय कायं
    प्रसादये त्वामहमीशमीड्यम् |
    पितेव पुत्रस्य सखेव सख्यु
    प्रिय प्रियायार्हसि देव सोढुम् || 44||
  • 45
    अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
    भयेन च प्रव्यथितं मनो मे |
    तदेव मे दर्शय देवरूपं
    प्रसीद देवेश जगन्निवास || 45||
  • 46
    किरीटिनं गदिनं चक्रहस्त-
    मिच्छामि त्वां द्रष्टुमहं तथैव |
    तेनैव रूपेण चतुर्भुजेन
    सहस्रबाहो भव विश्वमूर्ते || 46||
  • 47
    श्रीभगवानुवाच |
    मया प्रसन्नेन तवार्जुनेदं
    रूपं परं दर्शितमात्मयोगात् |
    तेजोमयं विश्वमनन्तमाद्यं
    यन्मे त्वदन्येन न दृष्टपूर्वम् || 47||
  • 48
    न वेदयज्ञाध्ययनैर्न दानै-
    र्न च क्रियाभिर्न तपोभिरुग्रै |
    एवंरूप शक्य अहं नृलोके
    द्रष्टुं त्वदन्येन कुरुप्रवीर || 48||
  • 49
    मा ते व्यथा मा च विमूढभावो
    दृष्ट्वा रूपं घोरमीदृङ्ममेदम् |
    व्यपेतभी प्रीतमना पुनस्त्वं
    तदेव मे रूपमिदं प्रपश्य || 49||
  • 50
    सञ्जय उवाच |
    इत्यर्जुनं वासुदेवस्तथोक्त्वा
    स्वकं रूपं दर्शयामास भूय |
    आश्वासयामास च भीतमेनं
    भूत्वा पुन सौम्यवपुर्महात्मा || 50||
  • 51
    अर्जुन उवाच |
    दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |
    इदानीमस्मि संवृत्त सचेता प्रकृतिं गत || 51||
  • 52
    श्रीभगवानुवाच |
    सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |
    देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण || 52||
    नाहं वेदैर्न तपसा न दानेन न चेज्यया |
    शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा || 53||
  • 53
    श्रीभगवानुवाच |
    सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |
    देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण || 52||
    नाहं वेदैर्न तपसा न दानेन न चेज्यया |
    शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा || 53||
  • 54
    भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |
    ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप || 54||
  • 55
    मत्कर्मकृन्मत्परमो मद्भक्त सङ्गवर्जित |
    निर्वैर सर्वभूतेषु य स मामेति पाण्डव || 55||
Temple Icon Home Read Icon Read Saved Icon Saved Profile Icon Profile