Bhagavad Gita
Share

Share it on your social apps

ज्ञानविज्ञानयोगः

Jnana vijnana yoga

Adhyaya 7

  • 1
    श्रीभगवानुवाच |
    मय्यासक्तमना पार्थ योगं युञ्जन्मदाश्रय |
    असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || 1||
  • 2
    ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत |
    यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते || 2||
  • 3
    मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये |
    यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत || 3||
  • 4
    भूमिरापोऽनलो वायु खं मनो बुद्धिरेव च |
    अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा || 4||
  • 5
    अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् |
    जीवभूतां महाबाहो ययेदं धार्यते जगत् || 5||
  • 6
    एतद्योनीनि भूतानि सर्वाणीत्युपधारय |
    अहं कृत्स्नस्य जगत प्रभव प्रलयस्तथा || 6||
  • 7
    मत्त परतरं नान्यत्किञ्चिदस्ति धनञ्जय |
    मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव || 7||
  • 8
    रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो |
    प्रणव सर्ववेदेषु शब्द खे पौरुषं नृषु || 8||
  • 9
    पुण्यो गन्ध पृथिव्यां च तेजश्चास्मि विभावसौ |
    जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु || 9||
  • 10
    बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् |
    बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् || 10||
  • 11
    बलं बलवतां चाहं कामरागविवर्जितम् |
    धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ || 11||
  • 12
    ये चैव सात्त्विका भावा राजसास्तामसाश्च ये |
    मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि || 12||
  • 13
    त्रिभिर्गुणमयैर्भावैरेभि सर्वमिदं जगत् |
    मोहितं नाभिजानाति मामेभ्य परमव्ययम् || 13||
  • 14
    दैवी ह्येषा गुणमयी मम माया दुरत्यया |
    मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते || 14||
  • 15
    न मां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमा |
    माययापहृतज्ञाना आसुरं भावमाश्रिता || 15||
  • 16
    चतुर्विधा भजन्ते मां जना सुकृतिनोऽर्जुन |
    आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ || 16||
  • 17
    तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |
    प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय || 17||
  • 18
    उदारा सर्व एवैते ज्ञानी त्वात्मैव मे मतम् |
    आस्थित स हि युक्तात्मा मामेवानुत्तमां गतिम् || 18||
  • 19
    बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते |
    वासुदेव सर्वमिति स महात्मा सुदुर्लभ || 19||
  • 20
    कामैस्तैस्तैर्हृतज्ञाना प्रपद्यन्तेऽन्यदेवता |
    तं तं नियममास्थाय प्रकृत्या नियता स्वया || 20||
  • 21
    यो यो यां यां तनुं भक्त श्रद्धयार्चितुमिच्छति |
    तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् || 21||
  • 22
    स तया श्रद्धया युक्तस्तस्याराधनमीहते |
    लभते च तत कामान्मयैव विहितान्हि तान् || 22||
  • 23
    अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् |
    देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि || 23||
  • 24
    अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धय |
    परं भावमजानन्तो ममाव्ययमनुत्तमम् || 24||
  • 25
    नाहं प्रकाश सर्वस्य योगमायासमावृत |
    मूढोऽयं नाभिजानाति लोको मामजमव्ययम् || 25||
  • 26
    वेदाहं समतीतानि वर्तमानानि चार्जुन |
    भविष्याणि च भूतानि मां तु वेद न कश्चन || 26||
  • 27
    इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत |
    सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप || 27||
  • 28
    येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् |
    ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रता || 28||
  • 29
    जरामरणमोक्षाय मामाश्रित्य यतन्ति ये |
    ते ब्रह्म तद्विदु कृत्स्नमध्यात्मं कर्म चाखिलम् || 29||
  • 30
    साधिभूताधिदैवं मां साधियज्ञं च ये विदु |
    प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस || 30||
Temple Icon Home Read Icon Read Saved Icon Saved Profile Icon Profile