Bhagavad Gita
Share

Share it on your social apps

ध्यानयोगः

Dhyana yoga

Adhyaya 6

  • 1
    श्रीभगवानुवाच |
    अनाश्रित कर्मफलं कार्यं कर्म करोति य |
    स संन्यासी च योगी च न निरग्निर्न चाक्रिय || 1||
  • 2
    यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव |
    न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन || 2||
  • 3
    आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते |
    योगारूढस्य तस्यैव शम कारणमुच्यते || 3||
  • 4
    यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते |
    सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते || 4||
  • 5
    उद्धरेदात्मनात्मानं नात्मानमवसादयेत् |
    आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन || 5||
  • 6
    बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जित |
    अनात्मनस्तु शत्रुत्वे वर्ते तात्मैव शत्रुवत् || 6||
  • 7
    जितात्मन प्रशान्तस्य परमात्मा समाहित |
    शीतोष्णसुखदुखेषु तथा मानापमानयो || 7||
  • 8
    ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय |
    युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चन || 8||
  • 9
    सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु |
    साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते || 9||
  • 10
    योगी युञ्जीत सततमात्मानं रहसि स्थित |
    एकाकी यतचित्तात्मा निराशीरपरिग्रह || 10||
  • 11
    शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन |
    नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् || 11||
  • 12
    तत्रैकाग्रं मन कृत्वा यतचित्तेन्द्रियक्रिय |
    उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये || 12||
    समं कायशिरोग्रीवं धारयन्नचलं स्थिर |
    सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् || 13||
  • 13
    तत्रैकाग्रं मन कृत्वा यतचित्तेन्द्रियक्रिय |
    उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये || 12||
    समं कायशिरोग्रीवं धारयन्नचलं स्थिर |
    सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् || 13||
  • 14
    प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थित |
    मन संयम्य मच्चित्तो युक्त आसीत मत्पर || 14||
  • 15
    युञ्जन्नेवं सदात्मानं योगी नियतमानस |
    शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति || 15||
  • 16
    नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत |
    न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन || 16||
  • 17
    युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु |
    युक्तस्वप्नावबोधस्य योगो भवति दुखहा || 17||
  • 18
    यदा विनियतं चित्तमात्मन्येवावतिष्ठते |
    निस्पृह सर्वकामेभ्यो युक्त इत्युच्यते तदा || 18||
  • 19
    यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता |
    योगिनो यतचित्तस्य युञ्जतो योगमात्मन || 19||
  • 20
    यत्रोपरमते चित्तं निरुद्धं योगसेवया |
    यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति || 20||
  • 21
    सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् |
    वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत || 21||
  • 22
    यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत |
    यस्मिन्स्थितो न दुखेन गुरुणापि विचाल्यते || 22||
  • 23
    तं विद्याद् दुखसंयोगवियोगं योगसञ्ज्ञितम् |
    स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा || 23||
  • 24
    सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत |
    मनसैवेन्द्रियग्रामं विनियम्य समन्तत || 24||
    शनै शनैरुपरमेद्बुद्ध्या धृतिगृहीतया |
    आत्मसंस्थं मन कृत्वा न किञ्चिदपि चिन्तयेत् || 25||
  • 25
    सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत |
    मनसैवेन्द्रियग्रामं विनियम्य समन्तत || 24||
    शनै शनैरुपरमेद्बुद्ध्या धृतिगृहीतया |
    आत्मसंस्थं मन कृत्वा न किञ्चिदपि चिन्तयेत् || 25||
  • 26
    यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |
    ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || 26||
  • 27
    प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् |
    उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् || 27||
  • 28
    युञ्जन्नेवं सदात्मानं योगी विगतकल्मष |
    सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते || 28||
  • 29
    सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |
    ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन || 29||
  • 30
    यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति |
    तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || 30||
  • 31
    सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित |
    सर्वथा वर्तमानोऽपि स योगी मयि वर्तते || 31||
  • 32
    आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन |
    सुखं वा यदि वा दुखं स योगी परमो मत || 32||
  • 33
    अर्जुन उवाच |
    योऽयं योगस्त्वया प्रोक्त साम्येन मधुसूदन |
    एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् || 33||
  • 34
    चञ्चलं हि मन कृष्ण प्रमाथि बलवद्दृढम् |
    तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् || 34||
  • 35
    श्रीभगवानुवाच |
    असंशयं महाबाहो मनो दुर्निग्रहं चलम् |
    अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते || 35||
  • 36
    असंयतात्मना योगो दुष्प्राप इति मे मति |
    वश्यात्मना तु यतता शक्योऽवाप्तुमुपायत || 36||
  • 37
    अर्जुन उवाच |
    अयति श्रद्धयोपेतो योगाच्चलितमानस |
    अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति || 37||
  • 38
    कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
    अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण पथि || 38||
  • 39
    एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषत |
    त्वदन्य संशयस्यास्य छेत्ता न ह्युपपद्यते || 39||
  • 40
    श्रीभगवानुवाच |
    पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते |
    न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति || 40||
  • 41
    प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती समा |
    शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते || 41||
    अथवा योगिनामेव कुले भवति धीमताम् |
    एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् || 42||
  • 42
    प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती समा |
    शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते || 41||
    अथवा योगिनामेव कुले भवति धीमताम् |
    एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् || 42||
  • 43
    तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् |
    यतते च ततो भूय संसिद्धौ कुरुनन्दन || 43||
  • 44
    पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि स |
    जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते || 44||
  • 45
    प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिष |
    अनेकजन्मसंसिद्धस्ततो याति परां गतिम् || 45||
  • 46
    तपस्विभ्योऽधिकोयोगी
    ज्ञानिभ्योऽपिमतोऽधिक|
    कर्मिभ्यश्चाधिकोयोगी
    तस्माद्योगीभवार्जुन|| 46||
  • 47
    योगिनामपि सर्वेषां मद्गतेनान्तरात्मना |
    श्रद्धावान्भजते यो मां स मे युक्ततमो मत || 47||
Temple Icon Home Read Icon Read Saved Icon Saved Profile Icon Profile