Bhagavad Gita
Share
Share it on your social apps
Copy
कर्मसंन्यासयोगः
Karma sanyasa yoga
Adhyaya 5
1
अर्जुन उवाच |
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् || 1||
2
श्रीभगवानुवाच |
संन्यास कर्मयोगश्च निश्रेयसकरावुभौ |
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते || 2||
3
ज्ञेय स नित्यसंन्यासी यो न द्वेष्टि न काङ् क्षति |
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते || 3||
4
साङ्ख्ययोगौ पृथग्बाला प्रवदन्ति न पण्डिता |
एकमप्यास्थित सम्यगुभयोर्विन्दते फलम् || 4||
5
यत्साङ्ख्यै प्राप्यते स्थानं तद्योगैरपि गम्यते |
एकं साङ्ख्यं च योगं च य पश्यति स पश्यति || 5||
6
संन्यासस्तु महाबाहो दुखमाप्तुमयोगत |
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति || 6||
7
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रिय |
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || 7||
8
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् || 8||
प्रलपन्विसृजन्गृह्ण्न्नुन्मिषन्निमिषन्नपि |
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् || 9||
9
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् || 8||
प्रलपन्विसृजन्गृह्ण्न्नुन्मिषन्निमिषन्नपि |
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् || 9||
10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य |
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || 10||
11
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |
योगिन कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये || 11||
12
युक्त कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |
अयुक्त कामकारेण फले सक्तो निबध्यते || 12||
13
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || 13||
14
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु |
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || 14||
15
नादत्ते कस्यचित्पापं न चैव सुकृतं विभु |
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव || 15||
16
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन |
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || 16||
17
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा |
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा || 17||
18
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |
शुनि चैव श्वपाके च पण्डिता समदर्शिन || 18||
19
इहैव तैर्जित सर्गो येषां साम्ये स्थितं मन |
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिता || 19||
20
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् |
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थित || 20||
21
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् |
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते || 21||
22
ये हि संस्पर्शजा भोगा दुखयोनय एव ते |
आद्यन्तवन्त कौन्तेय न तेषु रमते बुध || 22||
23
शक्नोतीहैव य सोढुं प्राक्शरीरविमोक्षणात् |
कामक्रोधोद्भवं वेगं स युक्त स सुखी नर || 23||
24
योऽन्तसुखोऽन्तरारामस्तथान्तज्र्योतिरेव य ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ।। 24।।
25
लभन्ते ब्रह्मनिर्वाणमृषय क्षीणकल्मषा |
छिन्नद्वैधा यतात्मान सर्वभूतहिते रता || 25||
26
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् |
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् || 26||
27
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो |
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || 27||
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण |
विगतेच्छाभयक्रोधो य सदा मुक्त एव स || 28||
28
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो |
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || 27||
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण |
विगतेच्छाभयक्रोधो य सदा मुक्त एव स || 28||
29
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् |
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति || 29||
Home
Read
Saved
Profile