Bhagavad Gita
Share
Share it on your social apps
Copy
श्रद्धात्रयविभागयोगः
Shradhatraya vibhaga yoga
Adhyaya 17
1
अर्जुन उवाच |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम || 1||
2
श्रीभगवानुवाच |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु || 2||
3
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्ध स एव स || 3||
4
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसा |
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जना || 4||
5
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना |
दम्भाहङ्कारसंयुक्ता कामरागबलान्विता || 5||
कर्षयन्त शरीरस्थं भूतग्राममचेतस |
मां चैवान्तशरीरस्थं तान्विद्ध्यासुरनिश्चयान् || 6||
6
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना |
दम्भाहङ्कारसंयुक्ता कामरागबलान्विता || 5||
कर्षयन्त शरीरस्थं भूतग्राममचेतस |
मां चैवान्तशरीरस्थं तान्विद्ध्यासुरनिश्चयान् || 6||
7
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु || 7||
8
आयुसत्त्वबलारोग्यसुखप्रीतिविवर्धना |
रस्या स्निग्धा स्थिरा हृद्या आहारा सात्त्विकप्रिया || 8||
9
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन |
आहारा राजसस्येष्टा दुखशोकामयप्रदा || 9||
10
यातयामं गतरसं पूति पर्युषितं च यत् |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् || 10||
11
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते |
यष्टव्यमेवेति मन समाधाय स सात्त्विक || 11||
12
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् || 12||
13
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते || 13||
14
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते || 14||
15
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते || 15||
16
मन प्रसाद सौम्यत्वं मौनमात्मविनिग्रह |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते || 16||
17
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै |
अफलाकाङ्क्षिभिर्युक्तै सात्त्विकं परिचक्षते || 17||
18
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् || 18||
19
मूढग्राहेणात्मनो यत्पीडया क्रियते तप |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् || 19||
20
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् || 20||
21
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुन |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् || 21||
22
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् || 22||
23
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविध स्मृत |
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता पुरा || 23||
24
तस्माद् ॐ इत्युदाहृत्य यज्ञदानतपक्रिया |
प्रवर्तन्ते विधानोक्ता सततं ब्रह्मवादिनाम् || 24||
25
तदित्यनभिसन्धाय फलं यज्ञतपक्रिया |
दानक्रियाश्च विविधा क्रियन्ते मोक्षकाङ्क्षिभि || 25||
26
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते |
प्रशस्ते कर्मणि तथा सच्छब्द पार्थ युज्यते || 26||
यज्ञे तपसि दाने च स्थिति सदिति चोच्यते |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते || 27||
27
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते |
प्रशस्ते कर्मणि तथा सच्छब्द पार्थ युज्यते || 26||
यज्ञे तपसि दाने च स्थिति सदिति चोच्यते |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते || 27||
28
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् |
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह || 28||
Home
Read
Saved
Profile