Bhagavad Gita
Share

Share it on your social apps

दैवासुरसम्पत्विभाग योग

Daivasura sampat vibhaga yoga

Adhyaya 16

  • 1
    श्रीभगवानुवाच |
    अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति |
    दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् || 1||
    अहिंसा सत्यमक्रोधस्त्याग शान्तिरपैशुनम् |
    दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् || 2||
    तेज क्षमा धृति शौचमद्रोहोनातिमानिता |
    भवन्ति सम्पदं दैवीमभिजातस्य भारत || 3||
  • 2

  • 3

  • 4
    दम्भो दर्पोऽभिमानश्च क्रोध पारुष्यमेव च |
    अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् || 4||
  • 5
    दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |
    मा शुच सम्पदं दैवीमभिजातोऽसि पाण्डव || 5||
  • 6
    द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च |
    दैवो विस्तरश प्रोक्त आसुरं पार्थ मे शृणु || 6||
  • 7
    प्रवृत्तिं च निवृत्तिं च जना न विदुरासुरा |
    न शौचं नापि चाचारो न सत्यं तेषु विद्यते || 7||
  • 8
    असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् |
    अपरस्परसम्भूतं किमन्यत्कामहैतुकम् || 8||
  • 9
    एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धय |
    प्रभवन्त्युग्रकर्माण क्षयाय जगतोऽहिता || 9||
  • 10
    काममाश्रित्य दुष्पूरं दम्भमानमदान्विता |
    मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रता || 10||
  • 11
    चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता |
    कामोपभोगपरमा एतावदिति निश्चिता || 11||
  • 12
    आशापाशशतैर्बद्धा कामक्रोधपरायणा |
    ईहन्ते कामभोगार्थमन्यायेनार्थसञ्जयान् || 12||
  • 13
    इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् |
    इदमस्तीदमपि मे भविष्यति पुनर्धनम् || 13||
    असौ मया हत शत्रुर्हनिष्ये चापरानपि |
    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी || 14||
    आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |
    यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता || 15||
  • 14

  • 15

  • 16
    अनेकचित्तविभ्रान्ता मोहजालसमावृता |
    प्रसक्ता कामभोगेषु पतन्ति नरकेऽशुचौ || 16||
  • 17
    आत्मसम्भाविता स्तब्धा धनमानमदान्विता |
    यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् || 17||
  • 18
    अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता |
    मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका || 18||
  • 19
    तानहं द्विषत क्रूरान्संसारेषु नराधमान् |
    क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु || 19||
    आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
    मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् || 20||
  • 20
    तानहं द्विषत क्रूरान्संसारेषु नराधमान् |
    क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु || 19||
    आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
    मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् || 20||
  • 21
    त्रिविधं नरकस्येदं द्वारं नाशनमात्मन |
    काम क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् || 21||
  • 22
    एतैर्विमुक्त कौन्तेय तमोद्वारैस्त्रिभिर्नर |
    आचरत्यात्मन श्रेयस्ततो याति परां गतिम् || 22||
  • 23
    य शास्त्रविधिमुत्सृज्य वर्तते कामकारत |
    न स सिद्धिमवाप्नोति न सुखं न परां गतिम् || 23||
  • 24
    तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ |
    ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि || 24||
Temple Icon Home Read Icon Read Saved Icon Saved Profile Icon Profile