Bhagavad Gita
Share

Share it on your social apps

पुरुषोत्तमप्राप्तियोगः

Purushottama prapti yoga

Adhyaya 15

  • 1
    श्रीभगवानुवाच |
    ऊर्ध्वमूलमधशाखमश्वत्थं प्राहुरव्ययम् |
    छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् || 1||
  • 2
    अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
    गुणप्रवृद्धा विषयप्रवाला |
    अधश्च मूलान्यनुसन्ततानि
    कर्मानुबन्धीनि मनुष्यलोके || 2||
  • 3
    न रूपमस्येह तथोपलभ्यते
    नान्तो न चादिर्न च सम्प्रतिष्ठा |
    अश्वत्थमेनं सुविरूढमूल
    मसङ्गशस्त्रेण दृढेन छित्त्वा || 3||
    तत पदं तत्परिमार्गितव्यं
    यस्मिन्गता न निवर्तन्ति भूय |
    तमेव चाद्यं पुरुषं प्रपद्ये
    यत प्रवृत्ति प्रसृता पुराणी || 4||
  • 4
    न रूपमस्येह तथोपलभ्यते
    नान्तो न चादिर्न च सम्प्रतिष्ठा |
    अश्वत्थमेनं सुविरूढमूल
    मसङ्गशस्त्रेण दृढेन छित्त्वा || 3||
    तत पदं तत्परिमार्गितव्यं
    यस्मिन्गता न निवर्तन्ति भूय |
    तमेव चाद्यं पुरुषं प्रपद्ये
    यत प्रवृत्ति प्रसृता पुराणी || 4||
  • 5
    निर्मानमोहा जितसङ्गदोषा
    अध्यात्मनित्या विनिवृत्तकामा |
    द्वन्द्वैर्विमुक्ता सुखदुखसंज्ञै
    र्गच्छन्त्यमूढा पदमव्ययं तत् || 5||
  • 6
    न तद्भासयते सूर्यो न शशाङ्को न पावक |
    यद्गत्वा न निवर्तन्ते तद्धाम परमं मम || 6||
  • 7
    ममैवांशो जीवलोके जीवभूत सनातन |
    मनषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति || 7||
  • 8
    शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर |
    गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् || 8||
  • 9
    श्रोत्रं चक्षु स्पर्शनं च रसनं घ्राणमेव च |
    अधिष्ठाय मनश्चायं विषयानुपसेवते || 9||
  • 10
    उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |
    विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष || 10||
  • 11
    यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |
    यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस || 11||
  • 12
    यदादित्यगतं तेजो जगद्भासयतेऽखिलम् |
    यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् || 12||
  • 13
    गामाविश्य च भूतानि धारयाम्यहमोजसा |
    पुष्णामि चौषधी सर्वा सोमो भूत्वा रसात्मक || 13||
  • 14
    अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित |
    प्राणापानसमायुक्त पचाम्यन्नं चतुर्विधम् || 14||
  • 15
    सर्वस्य चाहं हृदि सन्निविष्टो
    मत्त स्मृतिर्ज्ञानमपोहनं च |
    वेदैश्च सर्वैरहमेव वेद्यो
    वेदान्तकृद्वेदविदेव चाहम् || 15||
  • 16
    द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |
    क्षर सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते || 16||
  • 17
    उत्तम पुरुषस्त्वन्य परमात्मेत्युदाहृत |
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर || 17||
  • 18
    यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम |
    अतोऽस्मि लोके वेदे च प्रथित पुरुषोत्तम || 18||
  • 19
    यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् |
    स सर्वविद्भजति मां सर्वभावेन भारत || 19||
  • 20
    इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ |
    एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत || 20||
Temple Icon Home Read Icon Read Saved Icon Saved Profile Icon Profile