Bhagavad Gita
Share

Share it on your social apps

विभूतियोगः

Vibhuti yoga

Adhyaya 10

  • 1
    श्रीभगवानुवाच |
    भूय एव महाबाहो शृणु मे परमं वच |
    यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || 1||
  • 2
    न मे विदु सुरगणा प्रभवं न महर्षय |
    अहमादिर्हि देवानां महर्षीणां च सर्वश || 2||
  • 3
    यो मामजमनादिं च वेत्ति लोकमहेश्वरम् |
    असम्मूढ स मर्त्येषु सर्वपापै प्रमुच्यते || 3||
  • 4
    बुद्धिर्ज्ञानमसम्मोह क्षमा सत्यं दम शम |
    सुखं दुखं भवोऽभावो भयं चाभयमेव च || 4||
    अहिंसा समता तुष्टिस्तपो दानं यशोऽयश |
    भवन्ति भावा भूतानां मत्त एव पृथग्विधा || 5||
  • 5
    बुद्धिर्ज्ञानमसम्मोह क्षमा सत्यं दम शम |
    सुखं दुखं भवोऽभावो भयं चाभयमेव च || 4||
    अहिंसा समता तुष्टिस्तपो दानं यशोऽयश |
    भवन्ति भावा भूतानां मत्त एव पृथग्विधा || 5||
  • 6
    महर्षय सप्त पूर्वे चत्वारो मनवस्तथा |
    मद्भावा मानसा जाता येषां लोक इमा प्रजा || 6||
  • 7
    एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत |
    सोऽविकम्पेन योगेन युज्यते नात्र संशय || 7||
  • 8
    अहं सर्वस्य प्रभवो मत्त सर्वं प्रवर्तते |
    इति मत्वा भजन्ते मां बुधा भावसमन्विता || 8||
  • 9
    मच्चित्ता मद्गतप्राणा बोधयन्त परस्परम् |
    कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च || 9||
  • 10
    तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् |
    ददामि बुद्धियोगं तं येन मामुपयान्ति ते || 10||
  • 11
    तेषामेवानुकम्पार्थमहमज्ञानजं तम |
    नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || 11||
  • 12
    अर्जुन उवाच |
    परं ब्रह्म परं धाम पवित्रं परमं भवान् |
    पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् || 12||
    आहुस्त्वामृषय सर्वे देवर्षिर्नारदस्तथा |
    असितो देवलो व्यास स्वयं चैव ब्रवीषि मे || 13||
  • 13
    अर्जुन उवाच |
    परं ब्रह्म परं धाम पवित्रं परमं भवान् |
    पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् || 12||
    आहुस्त्वामृषय सर्वे देवर्षिर्नारदस्तथा |
    असितो देवलो व्यास स्वयं चैव ब्रवीषि मे || 13||
  • 14
    सर्वमेतदृतं मन्ये यन्मां वदसि केशव |
    न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवा || 14||
  • 15
    स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |
    भूतभावन भूतेश देवदेव जगत्पते || 15||
  • 16
    वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय |
    याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि || 16||
    कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |
    केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया || 17||
  • 17
    वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय |
    याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि || 16||
    कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |
    केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया || 17||
  • 18
    विस्तरेणात्मनो योगं विभूतिं च जनार्दन |
    भूय कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् || 18||
  • 19
    श्रीभगवानुवाच |
    हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय |
    प्राधान्यत कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||19||
  • 20
    अहमात्मा गुडाकेश सर्वभूताशयस्थित |
    अहमादिश्च मध्यं च भूतानामन्त एव च || 20||
  • 21
    आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |
    मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी || 21||
  • 22
    वेदानां सामवेदोऽस्मि देवानामस्मि वासव |
    इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना || 22||
  • 23
    रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् |
    वसूनां पावकश्चास्मि मेरु शिखरिणामहम् || 23||
  • 24
    पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |
    सेनानीनामहं स्कन्द सरसामस्मि सागर || 24||
  • 25
    महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |
    यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय || 25||
  • 26
    अश्वत्थ सर्ववृक्षाणां देवर्षीणां च नारद |
    गन्धर्वाणां चित्ररथ सिद्धानां कपिलो मुनि || 26||
  • 27
    उच्चैश्रवसमश्वानां विद्धि माममृतोद्भवम् |
    ऐरावतं गजेन्द्राणां नराणां च नराधिपम् || 27||
  • 28
    आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |
    प्रजनश्चास्मि कन्दर्प सर्पाणामस्मि वासुकि || 28||
  • 29
    अनन्तश्चास्मि नागानां वरुणो यादसामहम् |
    पितृणामर्यमा चास्मि यम संयमतामहम् || 29||
  • 30
    प्रह्लादश्चास्मि दैत्यानां काल कलयतामहम् |
    मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् || 30||
  • 31
    पवन पवतामस्मि राम शस्त्रभृतामहम् |
    झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी || 31||
  • 32
    सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |
    अध्यात्मविद्या विद्यानां वाद प्रवदतामहम् || 32||
  • 33
    अक्षराणामकारोऽस्मि द्वन्द्व सामासिकस्य च |
    अहमेवाक्षय कालो धाताहं विश्वतोमुख || 33||
  • 34
    मृत्यु सर्वहरश्चाहमुद्भवश्च भविष्यताम् |
    कीर्ति श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति क्षमा || 34||
  • 35
    बृहत्साम तथा साम्नां गायत्री छन्दसामहम् |
    मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर || 35||
  • 36
    द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |
    जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् || 36||
  • 37
    वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय |
    मुनीनामप्यहं व्यास कवीनामुशना कवि || 37||
  • 38
    दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् |
    मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् || 38||
  • 39
    यच्चापि सर्वभूतानां बीजं तदहमर्जुन |
    न तदस्ति विना यत्स्यान्मया भूतं चराचरम् || 39||
  • 40
    नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप |
    एष तूद्देशत प्रोक्तो विभूतेर्विस्तरो मया || 40||
  • 41
    यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |
    तत्देवावगच्छ त्वं मम तेजोंऽशसम्भवम् || 41||
  • 42
    अथवा बहुनैतेन किं ज्ञातेन तवार्जुन |
    विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् || 42||
Temple Icon Home Read Icon Read Saved Icon Saved Profile Icon Profile